________________
अध्यात्मसार
॥२०७||
एकान्तनित्यत्वादिसाङ्ख्यदर्शने कथं हिंसादयो घटन्ताम् - 'तत्राऽऽत्मा नित्य एवेति, येषामेकान्तदर्शनम् ।
हिंसादयः कथं तेषां, कथमप्यात्मनोऽव्ययात् ॥२४॥ टीका:-'साङ्ख्यादिरूपप्रत्येकैकान्तवादिदर्शनेषु तत्तद् दर्शनाभिप्रेताऽहिंसायां शुद्धरसम्भव इति परीक्ष्यमाणविषयं साधयति ग्रन्थकारो महर्षिरिति भूमिकारूपकथनम् , 'आत्मा नित्य एव' इति येषामेकान्तप्रतिपादकं दर्शनमस्ति तेषां साङ्ख्यानां मते न हिंसादयो घटन्ते, यत एकान्तनित्यस्याऽऽत्मनः कदाचिन्नाशस्य न सम्भवः सर्वदाऽव्ययो-अविनाशी विद्यते, यदि हिंसाया असम्भवश्चेदहिंसादिधर्मस्य तु का वार्ता १ ॥२४॥
-साख्यमताऽभिमतविशिष्टमनोयोगध्वंसरूपमरणस्य खण्डनम्
मनोयोगविशेषस्य, ध्वंसो मरणमात्मनः ।
हिंसा, तच्चेन्न तत्त्वस्य, सिद्धेरर्थसमाजतः ॥ २५ ॥ टीका:-पूर्वपक्ष: लोके व्यक्ते यन्मरणमुच्यते तद्व्यक्तेश्वरमात्ममनःसंयोगोऽथवेन्द्रियमनःसंयोगोऽस्ति तस्य यो ध्वंसो-हिंसा, सा लोकैरात्मनो हिंसा कथ्यते, हिंसाकारको हिंसक उच्यते, एवमस्या
॥२०७||
Jain Education Intera
Far Private & Personal use only
T
ww.jainelibrary.org