________________
अध्यात्म-18 सार
डा
॥२०५॥
टीका:-'तानि वैदिकादयो ब्रह्मादिपदवाच्यान्याहुः' तानि-अहिंसादीनि वैदिकादयो ब्रह्मादिपदैच्यानीति कथयन्ति, 'अतः' सर्वेकवाक्यत्वात' अस्मात् कारणादहिंसाविषये सर्वेषां शास्त्राणामेक वाक्यत्वाद् 'धर्मशास्त्रमदोऽर्थकम् ' =अहिंसादिषदार्थनिरूपकत्वेन धर्मशास्त्रं निश्चीयत एवेति ॥२०॥ - शास्त्रपरीक्षाऽर्थे सर्वधर्मग्रंथेषु कुत्र शुद्धाहिंसासम्भव इत्यन्वेषणीयम् -
'क्व चैतत् सम्भवो युक्त इति चिन्त्यं महात्मना ।
शास्त्र परीक्षमाणेना-व्याकुलेनान्तरात्मना ॥२१॥ टीका:-'शास्त्र परीक्षमाणेन'-पर्वात्मना शास्त्रस्य परीक्षा 'कुर्वता 'अव्याकुलेनाऽन्तरात्मना महात्मना' स्वस्थचित्तेन सम्यग्दृष्टिप्रभृतिगुणवदन्तरात्मना महापुरुषेण 'क्व चैतत्सम्भवो युक्त इति चिन्त्य कस्मिन् धर्मग्रन्थे शुद्धत्वविशिष्टाया अहिंसायाः सम्भवो युक्तः ? इति चिन्तनीयमेवेति ॥२१॥
- नात्र प्रमाणलक्षणादेरुपयोगः - 'प्रमाणलक्षणादेस्तु नोपयोगोत्र कश्चन ।
तन्निश्चयेऽनवस्थानादन्यार्थस्थितेर्यतः ॥२२॥ टीकः--'अत्र' =कुत्र धर्मशास्त्र शुद्धाहिंसासम्भव इति निर्णये, 'प्रमाणलक्षणादेस्तु' प्रत्यक्षाऽनुमाना
1॥२०५||
in Education
tema
For Private & Personal use only
Howw.jainelibrary.org