________________
अध्यात्मसार:
॥२०३।।
सन्तोषो गुरुशुश्रूषा, इत्येते दश कीर्तिताः ।
निगद्यन्ते यमाः साङ्ख्यैरपि व्यासानुसारिभिः ॥१५॥ टीका:-अहिंसा, सत्यवचनं, अम्तैन्यं, अकल्पना-निष्परिग्रहता, ब्रह्मचर्य तथाऽक्रोधः, आर्जवं, शौचं, सन्तोषः, गुरुशुश्रूषेति दशविधा धर्माः पाशुपतेरुच्यन्तेऽथ न्यासानुसारिभिः साङ्ख्यैरपि यमा निगद्यन्ते ॥१४, १५॥
- विशेषतो यमनियमवर्णनम् - 'अहिंमा सत्यमस्तैन्यं, ब्रह्मचर्य तुरीयकम् । पञ्चमोऽव्यवहारश्चे-त्येते पञ्च यमाः स्मृताः ॥१६॥ अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
अप्रमादश्च पञ्चैते. नियमाः परिकीर्तिताः ॥१७|| टीका:-अथ व्यासानुसारिभिः माढयैरपि यमा निगद्यन्ते तथाहि-अहिंसा, सत्यमस्तैन्यं, ब्रह्मचर्य, अव्यवहारश्च पञ्च यमाः स्मृताः । अक्रोधः, गुरुशुश्रूषा, शौचं, आहारलाघवं, अप्रमादश्च पञ्च नियमाः स्मृताः ॥१६॥१७॥
॥२०॥
Jain Education Internatione
Far Private & Personal use only
www.jainelibrary.org