________________
अध्यात्मसार:
।।२०२॥
टीकाः- 'यथाऽहिंसादयः पञ्च. व्रतधर्म यमादिभिः' अहिंमादयः पञ्च, तत्तदर्शनग्रन्थेषु, भिन्नभिन्न नामभिः सम्बोधिताः सन्त्येवः भागवते व्रतपदेन, मांख्ये यमादिपदेन, बौद्धधर्मे कुशलधर्मपदेन, अत्र यमादिस्थितादिपदेन ब्रह्मपदं ग्राह्यम् . अहिंसादयो वैदिकब्रह्मपदेन मुच्यन्ते. अर्थात्स्वस्वदर्शने भिन्नभिन्नसंज्ञाभिरहिंसादय उच्यन्ते इति ॥१२॥
- भागवतपाशुपताभ्यामहिंसादयो व्रतयमाऽऽदिभिः सूच्यन्ते - 'प्राहुर्भागवतास्तत्र व्रतोपव्रतपञ्चकम् ।
यमांश्च नियमान् पाशु--पता धर्मान् दशाऽभ्यधुः ॥१३॥ टीका:-भागवताः पौगणिका अहिंसाऽऽदिपश्चकं, 'व्रतोपव्रतपश्चक'='अहिंसासूनृताऽस्तेयब्रह्माऽकिश्वनता यमाः' नियमाः शौचमन्तोषौ स्वाध्यायतपसी अपि देवताप्रणिधानं' यमपञ्चकं व्रतपश्चकं, नियमपञ्चकमुपव्रतपश्चकं भागवता भाषन्ते, पाशुपता न्यायिका यमनियमरूपान् दश धर्मान् कथयन्ति स्म ॥१३॥
- अहिंसादिपञ्चकमक्रोधादिपञ्चकं नामग्राहं कथ्यन्ते - 'अहिंसा सत्यवचन-मस्तैन्यं चाप्यकल्पना । ब्रह्मचर्य तथाऽक्रोधो ह्यार्जवं शौचमेव च ॥१४॥
२०२॥
Jain Education Intemato
For Private & Personal use only
ww.jainelibrary.org