________________
अध्यात्म सारः
॥२०
॥
___ सम्यकत्वं दर्शितं सूत्र-प्रामाण्योपगमात्मकम् ॥१॥
टीकाः-'इहैव-अस्मिन्नेव जैनशासने शुद्धाऽहिंसा प्रोच्यतेऽथवा तत्त्वं प्रोच्यतेऽत ईदृशं जैनशास्त्रमेव प्रमाणमर्थाच्छास्त्रेऽस्मिन् यदुक्तं तदेव प्रमाणं, एवंविधसूत्रप्रामाण्यस्य यः स्वीकारस्तदात्मकं सम्यकत, यत्र शुद्धाया अहिंसायाः प्रतिपादनं तद्विषयकसूत्रस्य प्रामाण्यमेवेति ॥९॥
- अत्राप्यन्योऽन्याश्रयदोषं दर्शयति - 'शुद्धा हिंसोक्तितः सूत्र-प्रामाण्यं, तत एव च ।
अहिंसा शुद्धधीरेवमन्योऽन्याश्रयभीर्ननु ॥१०॥ टीका:-'ननु शुद्धाऽहिंसोक्तितः प्रामाण्यं =यदि सूत्रे शुद्धाऽहिंसा कथिता भवेत्तदा तत्सूत्रप्रामाण्यातिपत्तिः स्यात् , परन्तु यदि सूत्र प्रामाण्यस्य (इदं सूत्रं प्रमाणमिति) प्रतिपत्तिः स्यात्तदा तस्मिन् कथिताऽहिंसा शुद्धाऽम्त्येवं कथनीयं स्यादथ मूत्रं प्रमाणमस्तीति विषयस्तदैव सिद्धयेद् यदा तस्मिन् सूत्रे कथिनाऽम्तीति सिद्धिस्तदा भवेद् यदा तत्सूत्रं प्रमाणभृतमस्तीनि निश्चितं भवेदर्थात सूत्रप्रामाण्यप्रतिपत्ति विना सूत्रोक्ताऽहिंसा शुद्धाऽस्तीनि प्रतीति न भवेत् , शुद्धाऽहिंसायाश्च प्रतीति विना सूत्र. प्रामाण्यविषयकज्ञानं न भवेन , अतोऽन्योऽन्याश्रयदोषमयमुपस्थितं किं न ? अर्थादुपस्थितमेवेति ॥१०॥
RA॥२०॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org