________________
अध्यात्म
सारः
॥१९५।।
Jain Education International
-
• मनोनिग्रही गलितमोहतमः परमं महोऽनुभवत्यहो
'कृतकषायजयः सगभीरिम, प्रकृतिशान्तमुदात्तमुदारधीः
1
समनुगृह्य मनोऽनुभवत्य हो, गलितमोहतमः परमं महः ॥२१॥
,
टीकाः - ' कृतकषायजयः - क्रोधादिकषायजयकारी, 'उदारधीः' उदारबुद्धिस्वामी महामना महात्मा, मनो निगृह्याथवा 'सगमीरिम' = गम्भीरतायुतं, 'प्रकृतिशान्तं ' = स्वभावतः शान्तियुतम् औदाभ्ययुतमुदातादृशं मनः समनुगृह्य-सम्पाद्य, अहो ! 'गलितमोहतमः 'परमं महोऽनुभवति' = मोहनामक महाऽन्धकारं विनाश्य परमं ज्योतिरनुभवति मन इति ||२१||
निर्विकल्पं शुद्ध मनो भवेत्तदा यशः श्रीः
'गलितदुष्टविकल्पपरम्परम् धृतविशुद्धि मनो भवतीदृशम् ।
धृतिमुपेत्य ततश्च महामतिः, समधिगच्छति शुभ्रयशः श्रियम् ॥ २२ ॥
"
-
टीका: - 'गलितदुष्टविकल्प परम्परं ' - गलिता - नष्टा दुष्टानां विकल्पानां परम्परा येन तत्, 'धृतविशुद्धि' विशुद्धिर्येन तत् अर्थाद् शुभविकल्पधाराविनाशविशुद्धधारणानन्तरं निर्विकल्पकं विशुद्धमीदृशं मनो यदा भवति, तदा महामतिर्महात्मा, धृतिं- सस्थैर्यधैर्यमुपेत्य शुभ्रयशः श्रियं समधिगच्छति - प्राप्नोतीति ॥२२॥
For Private & Personal Use Only
।।१९५।।
www.jainelibrary.org