________________
अध्यात्म
सारः
॥१९४॥
-निर्विकल्पं हृदयं प्रसरति - 'इह हि सर्वबहिर्विषयच्युतम् , हृदयमात्मनि केवलमागतम् ।
चरणदर्शनबोधपरम्परा-परिचितं प्रसरत्यविकल्पकम् ॥१९॥
टोकाः-हि-एकान्तेनाऽत्र 'सर्वबहिर्विषयच्युतम् सकलबाह्यविषयमात्रतो विरहितं, 'आगतं केवलमात्मनि' चिदानन्दरूपे चेतने केवलं स्थिरीभूतम् , 'चरणदर्शनबोधपरम्परापरिचितम' सम्यगदर्शनज्ञानचारित्रपर्याय-परम्परया भावितम् , 'अविकल्पकम्'-शुभाशुभोभयविकल्पशून्यं, 'हृदयं प्रसरति' अन्तः करणं विशुद्धं विकसतितरामेवेति ॥१९॥
- असङ्गाऽन्तः करणस्वरूपम् - 'तदिदमन्यदुपैत्यधुनाऽपि नो, नियतवस्तुविलास्यपि निश्चयात् ।
क्षणमसङ्गमुदीत-निसर्गधीहतबहिर्ग्रहमन्तरुदाहृतम् ॥२०॥
टीका:-'नियतवस्तुविलास्यपि' नित्यवस्तुरूपात्मनि विलासशीलमपि 'निश्चयात् तदिदमन्यदु-र पैत्यधुनाऽपि तनो' निश्चय स्तदिदं मनोऽधुनाऽपि, अन्यद्-बाह्यवस्तुजातमुपैति नो नो समीपं गच्छति, एतादृशं मनः क्षणं अन्तमुहर्त यावत 'असगं निःसङ्गता प्राप्तं, 'उदीतनिसर्गधीहतबहिर्ग्रह' स्वभावरमणताविषयकबुद्धरुदयतो बाह्यपदार्थविषयकज्ञानशून्यमन्तः करणं कथितं भवति महर्षिमिरिति ॥२०॥
१९४॥
lain Education Interati
Far Private & Personal use only
Mainte bry on