SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१९३॥ Jain Education Internation टीका: - 'असद्विषयव्यवसायतश्च्युतम् ' = अशुभविषयविषयकव्यापारतचलितम् ; 'अधिसौष्ठवाद्यत्र लगति’=अत्यन्तसुष्ठुत्वेन यत्र विषये मनो लगति, 'प्रतिकृतिः पदमात्मवदेव वा' स विषयः परमात्मनः प्रतिमारूपोऽथवा आत्मसम्बद्धं पदमाध्यात्मिकपदमथवाऽऽत्मपदस्यैव शुद्धमसमस्तपदं यथाऽऽत्मपदमिति वा तद्विषयरूपमवलम्बनमत्र शुभं मतम् अत्रोपलक्षणतः पिण्डस्थपदस्थादिध्यानस्यालम्बनान्यपि ज्ञेयानि ||१७|| - काचन निश्चयकल्पना भवति सर्वनिवृत्तिसमाधये - तदनु कान निश्चयकल्पना, विगलितव्यवहारपदावधिः । न किमपीति विवेचनसम्मुखी भवति सर्वनिवृत्तिसमाधये ? ॥ १८ ॥ टीका:- एवं रीत्याऽशुभविकल्पाः शुभैर्विकल्पैविंजिता अपोदानी-मवशिष्टशुभविकल्प - विशिष्टो व्यवहारस्तु संयमादिजीवने स्थितोऽस्ति ततस्तदनु 'विगलितव्यवहारपदाऽवधिः काचन 'निश्चयकल्पना'= व्यवहारमार्गस्य स्थानमर्यादामुल्लंघमानाऽपूर्वकोटीका निश्चयकल्पना सम्पद्यते, अत्राधुना शुभसङ्कल्पा अपि न तिष्ठन्ति एषा निश्चयकल्पनाऽऽत्मतत्वविवेचनसम्मुखी भवति, अर्थात् सर्व-विकल्पमात्र निवृत्तिजन्यसमाधि प्रापयत्येवेति ||१८|| For Private & Personal Use Only ॥ १९३॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy