________________
अध्यात्म-10 सारः
॥१९॥
टीका:-यश्चित्तशुद्धिं कतमिच्छति स प्रथमतो व्यवहारनयमार्ग स्थितः सन् , शुभविकल्पाना प्राचुर्यवर्य-महावतोपासनया, अशुभानां विकल्पाना निवृत्ती परायणो भवेत् , हि-यतो हरत्येव कण्टक कण्टक इति ॥१॥
-प्रथमतो मनसो देशनिवृत्तिरपि स्फुटा गुणकरी - 'विषमधीत्य पदानि शनैः शनैः, हरति मन्त्रपदावधि मान्त्रिकः ।
भवति देशनिवृत्तिरपि स्फुटा, गुणकरी प्रथम मनसस्तथा ॥१६॥ टीका:-मन्त्रपदान्यधीत्य यथा मान्त्रिकः मन्त्रवेत्ता, शनैः शनैः 'मन्त्रपदावधि' =शरीरस्य दष्टावयवस्थाने यावद् विषं हरति = अन्यतो विषं हत्वा मुश्चति, तस्मिन्समये दष्टावयवस्थानेऽद्यापि विषं तु विद्यत एव, तथाऽपि दष्टावयवस्थानवर्ज समस्तशरीरतो विषं निवृत्तमेव, एतावती विषनिवृत्तिरपि यथा गुणकरी भवति नथा शमविकल्पाना सेवनद्वारा मानसिकाऽशुभविकल्पनिवारणरूपदेशनिवृत्तिरपि मनमः प्रथमं स्फूटा गुणकरी भवतीति ।१६॥
___ - मनो यत्र प्रतिमादौ लगति तदाऽऽलम्बनं शुभं मतम् - 'च्युतमसद्विषयव्यवसायतो, लगति यत्र मनोऽधिसौष्ठवात् । प्रतिकृतिः पदमात्मवदेव वा तदवलम्बनमत्र शुभं मतम् ॥१७॥
||१९२।।
lain Education Interati
For Private & Personal use only
w.jainelibrary.org