________________
बध्यात्मसार
॥१९॥
- अतिभयङ्करमदमहाज्वरविनाशने महौषधोभूता हृदयशुद्धिः - प्रवचनाऽब्जविलासरविप्रभा, प्रशमनीरतरङ्गतरङ्गिणी ।
हृदयशुद्धिरुदीर्णमज्वर-प्रसरनाशविधौ परमौषधम् ॥१३॥ टीका:-जैनशासनरूपकमलविकासे सूर्यप्रभासमाना, प्रशान्तिरूपनीरतरङ्गानां नदीरूपा, 'उदीर्णमदज्वरप्रसरनाशविधौ' परमौषधम्' प्रकटितमदनामकज्वरवेगस्य नाशक्रियायां परमौषधीभूता हृदयशुद्धिः॥१३॥
- सकलकर्मकलंकविनाशिनी मनः शुद्धिःअनुभवाऽमृतकुण्डमनुत्तर-व्रतमरालविलासपयोजिनी ।
सकलकर्मकलङ्क-विनाशिनी मनस एव हि शुद्धिरुदाहृता ॥१४॥ टीका:-अनुभवरूपामृतस्य कुण्डतुल्या, 'अनुत्तरव्रतमरालविलासपयी जिनी'महाव्रतरूपहंसराजस्य विलासाय कमलिनीसमाना, सर्वकर्मरूपकलङ्क-विनाशिनी, हि-निश्चये मनसःशुद्धिरेवोदाहता प्ररूपितेति ॥१४॥
... - मनशुडेरुपाय: - 'प्रथमतो व्यवहारनयस्थितोऽशुभविकल्पनिवृत्तिपरो भवेत् । शुभविकल्पमयव्रतसेवया, हरति कराटक एव हि कराटकम् ॥१५॥
॥१९॥
lain Education Intema
Far Private & Personal use only
N.jainelibrary.org