________________
अध्यात्म
सार:
- मनश्चञ्चलतरं स्वं वा जगदूवश्नयते 'मनसि लोलतरे विपरीतताम् , वचननेत्रकरेगितगोपना ।
ब्रजति धूर्ततया ह्यनयाखिलं, निबिडदम्भपरैर्मुषितं जगत् ॥११॥ टीकाः-मनसि लोलतरेऽत्यन्तचञ्चले सति, 'वचननेत्रकरेङ्गितगोपना' वचोगुप्तिरूपगोपना, नेत्रविविकारतारूपगोपना, करस्य चेष्टायां यतनारूपगोपना, 'विपरीततां व्रजति' सद्गतिरूपफलदानस्यस्थाने दुर्गतिफलास्वादनद्वारा सर्व यत् सत्तच्चञ्चलं मनो विपरीतं करोति, हि-निश्चयेऽनया धृततया 'निविडदम्भपरेः' = भयङ्करदाम्भिकेरखिलं जगन्मुषितं-चोरितमिति ॥११॥
- मनःशुडिरेघ शिवसुन्दर्या अनौषधा वशक्रियामनस एव ततः परिशोधनम् , नियमतो विदधीत महामतिः ।
इदमभेषजसंवनन मुनेः, परपुमर्थरतस्य शिवश्रियः ॥१२॥
टीकाः- 'ततो महामतिनियमतो मनस एव परिशोधनं विदधीत' = पूर्वकथितवचनतो महाधीमान्, एकान्ततो मानसस्यैव परिशुद्धिः कार्या, 'परपुमर्थरतस्य मुनेः' मोक्षनामकपरमपुरुषार्थे परायणस्य मुनेः इदं शिवश्रियोऽभेषजसंवननं मोक्षलक्ष्म्या मनसः परिशोधनमिदं, अनौषधं वशीकरणमिति ॥१२॥
॥१९॥
Jain Education International
Far Private & Personal use only
www.jainelibrary.org