SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥१८८।। Jain Education Internat यदि भ्रमत्यतिमत्तमनोगजस्तदा क्व कुशलम् 'चरणगोपुरभङ्गपरः स्फुरत्, - समयबोधतरूनपि पातयन् । भ्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिवराजपथे तदा ॥७॥ - टीकाः – 'चरणगोपुरमङ्गपरः' = चारित्ररूपपूर्द्वारमञ्जनपरायणः, 'स्फुरत्समयबोधतरूनपि पातयन् ' - स्फूर्तिमदागम - बोधरूप - वृक्षानपि भूमिसात् कुर्वन्, 'शिवराजपथे यद्यतिमत्तमनोगजो भ्रमति तदा क्व कुशलं’=शिवस्य-मोक्षस्य सम्यग्दर्शनज्ञान चारित्ररूपराजमार्गे यदि, अत्यन्तमदयुतमनो नामकगजो भ्रमति-भ्रमणं कुरुते तदा क्व कुशलं ९ कुतः क्षेमं स्यादिति ||७|| - दुष्टमनोरूपदहनो व्रततरून दहति व्रततरून् प्रगुणीकुरुते जनो, दहति दुष्टमनोदद्दनः पुनः । ननु परिश्रम एष विशेषवान्, क्व भविता सुगुणोपवनोदयः ॥ ८ ॥ टीका:- एकतो मुनिजनः 'व्रततरून् प्रगुणीकुरुते' = व्रतनामकवृक्षान् सेचंसेचं ज्ञानक्रियारूपजलादिभिः मज्जीकरोति--रक्षित्वा युवकान् करोति, अन्यतस्तदा पुनर्दुष्टमनोनामकदहनो दहति-मस्मसात करोति, निश्चितं यदेष परिश्रमोऽधिक एवास्ति, अर्थाद् व्रतवृक्षादिदहनानन्तरं कृतः सुगुणरूपारामस्योदयो भविष्यतीति, न कुतो भविष्यत्येवेति ॥८॥ For Private & Personal Use Only - ॥१८८॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy