SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥१८७|| मनोनामककपिः, अधो-भुमेरुपरि वाऽत्मभुमेरधस्तात प्रक्षिपति तत्र रसबणिगरूपो मुनिस्तु किं करोतुः अर्थात् किमपि कत्तु नाऽलं भवेत् ॥४॥ . -मनोरूपतुरङ्गो नियन्त्रित एष न तिष्ठति'सततकुट्टितसंयमभूतलो--त्थितरजोनिकरैः प्रथयंस्तमः । अतिदृढेश्च मनस्तुरगो गुगौ-रपि नियन्त्रित एष न तिष्ठति ॥५॥ टीका:-'सततकुट्टितसंयमभूतलोत्थितरजोनिकरैः' निरन्तरं कुट्टितं संयमनामकं भूतलं तेनोथिता रजसां निकरः, 'तमः प्रथयन्'-अन्धकारं विस्तारयन, मनोनामकस्तुरगः 'गुणैरतिदृढेरपि नियन्त्रित एप न तिष्ठति' अत्यन्तदृढैः गुणैः-रज्जुभि, गुणरज्जुभिः; नियन्त्रित एष-मनस्तुरगो न तिष्ठति परन्तु दूतं धावत्येवेति ||५|| - अहह कोऽपि मनःपवनो बली - जिनवचोधनसारमलिम्लुचः, कुसुमसायकपावकदीपकः । अहह कोऽपि मनः पवनो बली, शुभमतिद्रुमसन्ततिभङ्गकृत् ॥६॥ टीका:-जिनवचनरूपका रप्रत्युत्क्षेपकः, कामनामकपावक (वमि) दीपकः, शुभमतिरूपवृक्षपरम्पराभञ्जनजनकः अहह कोऽपि मनोरूपपवनो बली वर्त्तते ॥६॥ ॥१८७॥ Jain Education Intemat For Private & Personal use only N I www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy