________________
अध्यात्म
सार:
।। १८६ ।।
Jain Education International
जनानामरतेरपि च जगतः प्रीतितः का विकृतिः, अर्थाद् गगनस्थे निर्मले चन्द्रमसि पृथ्वीस्थान स्त्रीणां पुंसां वा विरहजन्यारतिकारणतः, अविरहवतो जगतो रतिरूपहेतुतो न काऽपि विकृति वैपरीत्यमपितु प्रकृतिस्थितिः 'प्रकृतिविकृतिर्जायते नोत्तमानामित्युक्तेः ||२|| - मनः कृते शोकहास्ये एव
'रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः ।
उपनते स्मयमानमुखः पुनर्भवति तत्र परस्य किमुच्यताम् ||३|| टीका:-रुचिविषयमिष्टमप्राप्तं वस्तु मन्यमानो मानवो हि स्वमनसैव शोकं करोति, पुनरुपन ते प्राप्ते वस्तुनि 'स्मयमानमुखः भृशं हसितमुखो भवति तत्र - एतादृशवस्तुस्थितेः सर्जने मन एव कारणम्, तत्र परस्य किमुच्यतां ९ अर्थान्मनोभिन्नपरस्य निमित्तं नोच्यत एव ॥ ३ ॥ - चारित्रशमरसादिविषये मनः कपेर्विचित्रं चापल्यम्
'चरणयोगघटान् प्रविलोठयन् शमरसं सकलं विकिरत्यधः ।
S
चपल एष मनःकपिरुच्चकैः, रसवणिग् विदधातु मुनिस्तु किम् ||४||
'टीका: - 'चरणयोगघटान् प्रविलोठयन् ' = सप्ततिविध - चारित्रव्यापाररूपघटान् प्रस्फोटयन्, 'सकलं शमरसं चारित्रयोगघटस्थं समग्रं शान्तरसं 'चपल एव मनः कपिरुच्चकैरधो विकिरति' एष चापल्यसम्पन्न
For Private & Personal Use Only
॥ १८६॥
www.jainelibrary.org