________________
सारा
॥१८॥
- इच्छादीनां चतुण्णां योगानामनुभावा:-कार्याणि_ 'अनुकम्पा च निर्वेदः, संवेगः प्रशमस्तथा ।
एतेषामनुभावाः स्यु-रिच्छादीनां यथाक्रमम् ॥३४॥ टीकाः-एतेषामिच्छादीनां यथाक्रमं (१) अनुकम्पा द्रव्यतो भावतो वा यथाशक्ति दुःखितस्य दुःखप्रहाणेच्छारूपाऽनुकम्पाः (२) निर्वेदः। संसारस्य नैगुण्यज्ञानतो जायमानविरागतारूपो निर्वेदः (३) संवेगः-मोक्षपदविषयको वेगवानभिलाषः, (४) प्रशमा भौतिकतृष्णोच्छलत्तरङ्गोपशमरूपाप्रशमः: अर्थादिच्छादियोगानामनुकम्पाद्या अनुभावाः कार्याणि स्युः, इदमत्र हृदयम्सम्यक्त्वप्राप्तित इच्छादियोगप्रवृत्तितश्व, अनुकम्पादीनि चत्वारि कार्याणि निष्पद्यन्ते, आस्तिक्यशून्यानुकम्पादिकार्याणि प्रति सम्यक्त्वरहितेच्छादियोगः कारणम् , आस्तिक्यसहितानुकम्पादिकार्याणि प्रति सम्यक्त्वसहितेच्छादियोगः कारणम् , केवलेच्छादियोगतो मार्गानुसारिणि जीवेऽनुकम्पादिभावाः प्राप्यन्ते, सम्यक्त्वशालिनि जीवे, आस्तिक्यसहिताऽनुकम्पादिभावाः प्राप्यन्ते, एवमनुकम्पादीनि कार्याणि सम्यक्त्वशालिनां च मार्गानुसारिणां च भिन्नानि भिन्नानि यानीति ॥३४॥
-अष्टादिमावत इच्छादियोगे साफल्यम्
॥१८॥
Jain Education Internation
For Private & Personal use only
PAww.jainelibrary.org