SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ १७९॥ Jain Education Internation सह यथाशक्ति स्थानादियोगा आचरणीयास्तस्मात्ते स्थानादयः पञ्चेच्छा योगा उच्यन्ते, (२) प्रवृत्तियोगः = सर्वास्ववस्थासु प्रशमाऽन्वितं यथाशास्त्रविधिस्थानादियोगानां पालनं 'प्रवृत्तियोगः', उल्लासातिशयमपेक्ष्य, सर्वाण्यङ्गानि प्राप्य क्रियमाणा ये स्थानादयस्ते प्रवृत्तियेोगरूपा ज्ञेया इति ॥ ३१ ॥ - स्थिरतासिद्धियमद्वयस्य स्वरूपम् 'सत् क्षयोपशमोत्कर्षा - दतिचारादिचिन्तया रहितं तु स्थिरं सिद्धिः, 1 परेषामर्थ साधकम् ॥३२॥ टीका:- यदा स्थानादि, प्रवृत्तियमरूपमस्ति, तदतिचारस हितत्वेन बाधकचिन्तया सहितं भवति, परन्तु यदा तत्राऽत्यन्तसम्यगम्यासो भवेत्तदाऽतिचारदोषसम्भवस्य चिन्ता न भवत्यर्थात्तादृशबाधकचिन्तासुक्तिसम्भवे, तदेव स्थानादि, स्थैर्ययमरूपं कथ्यते, 'सिद्वियमः' - स्वात्मन्युत्कृष्टक्षयोपशमादिफलोत्पादकं तत् सर्वस्थानादि, स्वसन्निधावागतेषु, योगशुद्धिरहितेष्वात्मस्वपि स्वसिद्धोपशमादिसदृशफलमुत्पादयति तदा तत्स्थानादि, 'सिद्धियमत्वेन कथ्यते, अत एव यथा परमसत्यवादिनां पार्श्वेऽसत्यप्रियो जनोऽपि, मिथ्या वक्तु ं न शक्नोति तथा पूर्वोक्तपरमाहिंसादिभावयुतानां योगिनां पार्श्वे हिंसाप्रकृतयो नित्यवैरिणो जीवा अपि तत्राऽहिंसाभाववन्तः सन्त उपविशन्तीति ॥ ३२ ॥ For Private & Personal Use Only ॥ १७९ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy