________________
अध्यात्म
सार
॥१७७॥
टीकाः-अत्र-अनुष्ठानपश्चकमध्ये 'द्वयं हि-तद्धेतुनामकाऽमृतनामकानुष्ठानद्वयं 'सद्' सत्फलकारकत्वेन सदेव, 'त्रयमसदेव' = विषनामकगरनामकाननुष्ठाननामकाऽनुष्ठानानि त्रीणि, 'अमदेव' असतफलजनकत्वेनाशुभान्येच, 'तत्राषि चरमं श्रेष्टं' - सदनुष्ठ नद्वयमध्येऽपि चरम-अमृतानुष्ठानं सर्वोनममेव यतः 'मोहोपविषनाशनात्' % मोहनीयकमणो मिथ्यात्वादिरूपमूलसंस्कारविषरूपस्योगविषम्य नाशनाद. मृतं श्रेष्टं वर्तते, अत्र मिथ्यात्वादिरूपमोहोगविषं नाश्यम् , अमृताऽनुष्ठानं नाशकं ज्ञेयमिति ॥२८॥
सदनुष्ठानस्य लक्षणानि 'श्रादरः करणे प्रीति-रविघ्नः सम्पदागमः ।
जिज्ञासा तज्ज्ञसेवा च, सदनुष्ठानलक्षणम् ॥२६॥ टीका:- 'आदरः' = मुमुक्षोमोक्ष एवेष्टं वस्तु, एनदिष्टाप्तये क्रियाया प्रयत्नाऽतिशयरूप आदर:: (२) 'करणे प्रीतिः' - सम्यक क्रियायाः करणे मानसं प्रेम (३) 'अविघ्नः' = पुण्यानुवन्धिपुण्यसामर्थ्यत एतन्क्रियाकरणे न कश्चिद्विधनागमः (१) 'सम्पदागमः शुभभावजन्यपुण्यतोऽलोलताऽनिष्ठुरतादिगुणरूपयोगसम्पदामागमः, (५) 'जिज्ञासा' = भोक्षात्मकस्येष्टस्य स्वरूपं ज्ञातुमिच्छा (५) तज्ज्ञसेवा' ॥ मोक्षात्मकस्य परमतत्वस्य ज्ञाता भगवा सेवादिकं कृत्वा कृपा विशिष्टा लभ्या, इत्येवं सदनुष्ठानलक्षणानि बोध्यानि ॥२९॥
1
॥१७॥
in Eduan Internal
For Private & Personal use only
www.jainelibrary.org.