________________
अध्यात्म सार:
॥१७॥
सम्बेगगर्भमत्यन्त-ममृतं तदिदो विदुः ॥२६॥ टीकाः अमृतानुष्ठानविषयकज्ञानवन्तः कथयन्ति यज्जिनस्याज्ञा पुरस्कृत्य-अग्रतः कृत्वा, चित्तस्य शुद्धितः प्रवृत्तं प्रवृत्तिविषयीकृतं 'अत्यन्तं सम्वेगगर्भ = उत्तरोत्तरवर्द्धमानमोक्षाऽभिलाषेण विशिष्टं 'अमृत' = अमृतनामकमनुष्ठानं तज्ज्ञाः कथयन्ति स्म ॥२६॥
___ अमृताऽनुष्ठानस्य द्वितीयं लक्षणम् शास्त्रार्थाऽऽलोचनं सम्यक् , प्रणिधानं च कर्मणि ।
कालाद्यङ्गाऽविपर्यासोऽमृताऽनुष्ठानलक्षणम् ॥२७॥ टीकाः-शास्त्राऽर्थाऽऽलोचनं सम्यक् प्रणिधानं च कर्मणि' अमृतनामके कर्मणि सूत्रविषयकस्याऽर्थस्याऽनुप्रेक्षणरूपमालोचनम्, चित्तस्यैकाग्रता, अप्रमत्तता वा प्रणिधानं, कालविनयादिरूपाणामङ्गाना साधनानामविपर्यासः% अन्यथाऽऽचरणाऽभावः, अमृताऽनुष्ठानस्य लक्षणम् ॥२७॥
सक्नुष्ठानमसदनुष्ठानं च विभजते 'दयं हि सदनुष्ठान त्रयमत्राऽसदेव च । तत्रापि चरमं श्रेष्ठ, मोहोगविषनाशनात् ॥२८॥
Jain Education Internation
For Private & Personal use only
I
w w.jainelibrary.org