________________
अध्यात्म.
सारः
1120411
Jain Education Internation
फलरूपं तदुघेत्वनुष्ठानस्वरूपम्
'भावधर्म्मस्य सम्पत्ति, र्या च सद्दशनादिना ।
फलं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् ॥२४॥
टीकः - सद्गुरुयोगे सति तन्मुखतः सद्धर्मदेशनायाः श्रवणतो मिथ्यात्वमोहनीय कर्मणः क्षयोपशमादिर्भवेत्तस्मात् सम्यक्त्वादिभावधर्मस्य या सम्पत्तिः सम्प्राप्तिः, सा तद्धेत्वनुष्ठानस्य फलं विज्ञेयं यनियमात् अवश्यमेव मोक्षसाधकम् ||२४||
अमृतानुष्ठानस्वरूपम्
'सहजो भावधर्मो हि, शुद्ध श्वन्दनगन्धवत् । एतद्गर्भमनुष्ठानममृतं सम्प्रचक्षते
॥२५॥
टीकाः = यथा चन्दनस्य गन्धः सहजो गुणः तथाऽऽत्मनः सम्यक्त्वादिरूपभावधर्मः शुद्धः सहजो गुण उच्यते तादृशभावधर्म गर्भितं विशिष्टमनुष्ठानममृतानुष्ठानं कथ्यते, एवं तद्धेत्वनुष्ठानस्य फलममृतासुष्ठाने परिणमते ||२५||
अमृतानुष्ठानस्य प्रथमं लक्षणम्
'जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः 1
For Private & Personal Use Only
1170411
www.jainelibrary.org