________________
अध्यात्म सार:
॥१७॥
स्वोदितक्रियापाठी एक आत्मा कुरुते, तन्निरीक्ष्य श्रुत्वा च द्वितीयस्तथैव कुरुते, तथैव तृतीयादिः करोत्येवं गताऽनुगतिकत्वतोऽशद्धक्रियापाठप्रवचनप्रवर्तनप्रसिद्धिता सूत्रकथितशुद्धक्रियापाठविलोपः स्यात, वस्तुतस्तु अशुद्धादरे सूत्रविहितक्रियाविलोपद्वारा तीर्थोच्छेदसंभवः कथं न १ ॥१३॥
बहुभिः कृतं यत्तत्कर्त्तव्यमिति मतस्य खण्डनम् 'धर्मोद्यतेन कर्त्तव्यं कृतं बहुभिरेव चेत् ।
तदा मिथ्यादृशां धर्मो त्याज्यः स्यान्न कदाचन ॥१४॥ टीकाः--बहुभिर्लोके यया रीत्या कृतं तया रीत्यैव धर्मोद्यतेनात्मना कर्त्तव्यमिति न समीचीनम् , यत उक्तमतसमर्थने मिथ्याशा क्रियाकाण्डरूपो धर्मः सदा सेवनीयः स्यात , कदाचनाऽपि त्याज्यो न म्याद् यतो बहुमिलोंके सेवितोऽभिमतश्चेति ॥१४॥
अननुष्ठानकर्मण उपसंहारः 'तस्माद् गतानुगत्या च, यत् क्रियासूत्रवर्जितम् ।
श्रोघतो लोकतो वा तदननुष्ठानमेव हि ॥१॥ टीकाः-'तस्माद्' पूर्वोक्तकथनतः, 'ओधतो लोकतो वा'=ोधसंज्ञया लोकसंज्ञया वा यत्कर्म,
॥१७॥
lain Education Internati
For Private & Personal use only
D
ww.jainelibrary.org