________________
वन्यात्मसार
॥१६७||
'निषेधायाऽनयोरेव. विचित्राऽनर्थदायिनोः ।
सर्वत्रैवाऽनिदानत्वं, जिनेन्द्रः प्रतिपादितम् ॥७॥ टीका:-'विचित्रानर्थदायिनोः'विविधजातीयानर्थसार्थदायकयोः 'अनयोरेव निषेधाय' विषानुष्ठानगरानुष्ठानयोरेव प्रतिषेधाय 'सर्वत्रैव जिनेन्द्ररनिदानत्वं प्रतिपादितं सर्वेष्वनुष्ठानेष्वनिदानत्वम नाशंसत्वमेव जिनानामिन्द्रः प्रतिपादितमस्ति ॥७॥
- अननुष्ठानस्वरूपम् - 'प्रणिधानाद्यभावेन, कर्माऽनव्यवसायिनः ।
संमूर्छिमप्रवृत्त्याभमननुष्ठाननमुच्यते ॥८॥ टीकाः-'अनध्यवसायिनः' =अध्यवसायशून्यस्याऽऽत्मनः, 'प्रणिधानाद्यमावेन' =यै चित्तस्काग्रताऽऽदिभावस्याऽभावपूर्वकं 'सम्मृच्छिमजीवानां प्रवृत्तिसदृशं यत्कर्म तदननुष्ठानमुच्यते ॥८॥
- अननुष्ठानकर्मणि हे संज्ञे उपयुज्यते - 'श्रोघसंज्ञाऽत्र सामान्य-ज्ञानरूपा निबन्धनम् । लोकसंज्ञा च निर्दोष-सूत्रमार्गाऽनपेक्षिणी ॥६॥
॥१६॥
Jain Education Intemato
For Private & Personal use only
www.jainelibrary.org