________________
अध्यात्म
सार:
।। १६६॥
Jain Education Internation
गरानुष्ठानस्वरूपवर्णनम्
'दिव्य भोगाऽभिलाषेण, कालान्तरपरिक्षयात् । स्वादृष्टफलसम्पू,
गरानुष्ठानमुच्यते
॥५॥
टीका:- 'दिव्य भोगाऽभिलाषेण ' = पारलौकिक देवसम्बन्धिभोगस्याऽभिलाषेण क्रियमाणं गुरुसेवादिरूपमनुष्ठानं गरानुष्ठानं कथ्यते, 'स्वादृष्टफलसम्पूर्तेः ' = पूर्वोक्ताऽनुष्ठानजन्यं स्वकृतादृष्ट-स्वनिर्मित पुण्यकम, तस्य भोगस्य सम्पूरणतः, 'कालान्तरपरिक्षयात् ' = अन्यकाले देवादिभवकाले चित्तशुद्धिरूपभावप्राणपरिक्षयतो गरानुष्ठानमुच्यते ||५||
- पुनरपि गरानुष्ठानं सदृष्टान्तं दर्श्यते-'यथा कुद्रव्यसंयोग - जनितं गरसंज्ञितम् । विषं कालान्तरे हन्ति, तथेदमपि तत्त्वतः ॥ ६ ॥
टीका: यथा काचानां शकलादिरूपकुत्सितद्रव्याणां संयोग मिश्रणतो जनितं गरसंज्ञितं विषं कथ्यते, तादृशभक्षकस्य तादृशं विषं 'कालान्तरे' = द्विचतुर्द्वादशमासान्तरे हन्ति, तथा दिव्यभोगादिप्राप्ते निंदानपूर्वकं कृतमनुष्ठानं वस्तुतः कालान्तरे चित्तशुद्धिं हन्ति ततस्तदनुष्ठानं गरानुष्ठानं कथ्यते ॥६॥ अनिदानत्वं प्रतिपादितमेव
For Private & Personal Use Only
॥१६६॥
www.jainelibrary.org