SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः टीका:-गुरुसेवाऽऽदिस्वरूपमनुष्ठानमैहिकपारलौकिकसुखादिविषयकाशयमेदेन पञ्चविधं भवति तन्नामानीमानि यथा-विषनामक गराख्यमननुष्ठानाभिधं तद्धेतुगोत्रकममृतसंज्ञकं पञ्चविधमनुष्ठानम् ॥२॥ -विषनामकाऽनुष्ठानवर्णनम् - 'श्राहारोपधिपूजद्धि-प्रभृत्याशंसया कृतम् । शीघ्र सच्चित्तहन्तृत्वादिषानुष्ठानमुच्यते ॥३॥ टीका:-आहारविषयकाशंसया, उपकरणरूपोपधिविषयकाशंसया, पूजासत्कारविषयककामनया, समृ. द्विसंपत्तिमत्तादिकविषयकेहिकफलाशंसया मह क्रियमाणगुरुसेरादिस्वरूपमनुष्ठानं, शीघ्र-तत्कालं 'सच्चित्तहन्तृत्वात्' =सम्यग्भावरूपचित्तशुद्भिहननकत्तत्वाद्विपानुष्ठानं कथ्यते ॥३॥ - तदेव विषानुष्ठानं सदृष्टान्तं विभज्यते - 'स्थावरं जङ्गमं चापि, तत्क्षणं भक्षितं विषम् । यथा हन्ति तथेदं स-च्चित्तमैहिकभोगतः ॥४॥ यथा स्थावरं चापि जङ्गममुभयविधं विषं भक्षितं सत् तत्क्षणं द्रव्यप्राणान् हन्ति, तथेदं-विपानुठानं पूर्वोक्तिहिकभोगेच्छया 'सच्चित्तं-भावशुद्धिरूपान भावप्राणान हन्ति ॥४॥ Jain Education Internatio Far Private & Personal use only Twww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy