________________
अध्यात्म
सारः
॥१६॥
त्मबोधकृपया, समतासिद्धावेव पूर्णः प्रयत्न कर्त्तव्य इति ।।२९॥ ___इत्याचार्यश्रीमद् विजयलब्धिसूरीश्वरपट्टधराचार्यश्रीमद्विजयभुवनतिलकसूरीश्वरपट्टधरभद्रकरसूरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकार्या समतानामको नवमोऽधिकारः समाप्तः ॥२५४॥
सदनुष्ठाननामको दशमोऽधिकारः
- शुद्धानुष्ठानम् - 'परिशुद्धमनुष्ठानं जायते समताऽन्वयात् ।
कतकक्षोदसक्रान्तः, कलुषं सलिलं यथा ॥१॥ टीका:-'अनुष्ठान' =मलिनमपि धर्माऽनुष्ठानं 'समताऽन्वयात्'समतानामकपरिणामस्य सततसम्बन्धान , 'परिशुद्धं जायते' परितो निर्मलं भवति ‘यथा कतकशोदसङ्क्रान्तेः कलुपं सलिलं परिशुद्धं' यथा मलयतं जलं कतकीयचूर्णसङ्क्रमणतः परितोऽत्यन्तं वा शुद्धं जायते ॥१॥
- अनुष्ठानस्य भेदा:विषं गरोऽननुष्ठानं, तद्धेतुरमतं परम् । गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः ॥२॥
॥१६॥
Jain Education Internat
For Private & Personal use only
www.ainebrar.