________________
अध्यात्म सार:
॥१६२॥
टीका:-यदि चारित्रनामकपुरुषस्य प्राणा: समतानामका गताः अस्तं गता यावनष्टा स्तदा 'जनानुधावनावेशः'जनानामनुधावनस्याडम्बरः, 'तन्मरणोत्सवः समताख्यप्राण विहीनस्य तस्य मरणमहोत्सवो ज्ञेयः ॥२५॥
समतां विना कृतमकृतं कष्टरूपं वा भवति'सन्तज्य समतामेकां, स्याद्यत्कष्टमनुष्ठितम् ।
तदीप्सितकरं नैव, बीजमुप्तमिवोषरे ॥२६॥ ____टीका:-एका समता सन्त्यज्य-विहाय यत्कष्टं यत् कष्टकारिफर्माऽनुष्ठितं--कृतं स्यात् 'तदीप्सितकरं नैव तत्कार्यमिष्टसिद्धिकरं नैव, बीजमप्तमिवोपरे उपरभूम्यां निक्षिप्तं यथा बीजं कष्टरूपमतएव नेष्टसिद्धिकरं तथाऽत्रापि बोध्यम् ॥२६॥
मुक्तरुपाय एका समतेव 'उपायः समतेवैका, मुक्तेरन्यः क्रियाभरः ।
तत्तत्पुरुषभेदेन, तस्या एव प्रसिद्धये ॥२७॥ टीका:-'उपायः समतेवैका, मुक्तेः'-मुक्ते मोक्षस्योपाय एका समतेव, मोक्षोपायभूतसमताया
For Private A Personal use only
१६२॥
Jain Education remati
www.jainelibrary.org