________________
अध्यात्म. सार:
॥१०॥
समतावर्मगुप्तानां, नाऽतिकृत्सोऽपि जायते ॥२१॥ टीका:-तीव्रः स्वमर्मभित् , नतिस्तुत्यादिकाऽऽशंसाशर तीक्ष्णः, स्वात्ममर्मभेदकः, जनगणविहितनमन-स्तवनादिविषयकलालसारूपो बाणः, 'समतावर्मगुप्ताना' समता-नामकवर्मणा रक्षितानां महात्मनां 'सोऽपि नाऽऽर्तिकृजायते' पूर्वकथितवाणोऽपि पीडाकारी न जायते ॥२१॥
समता, जन्मान्तरप्रचितानि कर्माणि क्षिणोति 'प्रचितान्यपि कर्माणि, जन्मनां कोटिकोटिभिः ।
तमांसीव प्रभा भानोः, क्षिणोति समता क्षणात् ॥२२॥ ___टीका:-'जन्मनां कोटिकोटिभिः'-कोटिभिगुणिताः कोटयः कोटिकोटयः, ताभिः, कोटिकोटिजन्मभिः, 'प्रचितान्यपि कर्माणि' आत्मसाद् कृतानि-बद्धान्यपि कर्माणि यथा भानोः प्रभा तमांसि क्षणात क्षिणोति-नाशयति, तथा समता भवभवांतरमध्ये बद्धानि कर्माणि क्षयं प्रापयति क्षणात ॥२२॥
समतयैव भावजैनता सिध्यति 'अन्यलिङ्गादिसिद्धाना-माधारः समतैव हि । रत्नत्रयफलप्राप्तेर्यया स्याद् भावजैनता ॥२३॥
॥१६०॥
Jain Education Inten
For Private & Personal use only
www.jainelibrary.org