________________
वष्यात्म सारः
॥१५९॥
-समतयाऽनिर्वचनीयमुखसम्माप्तिः'क्षणं चेतः समाकृष्य, समता यदि सेव्यते ।
स्यात्तदा सुखमन्यस्य, यद् वक्तु नैव पार्यते ॥११॥ टीकाः-क्षण-क्षणपर्यन्तं रागद्वेषपरपदार्थादिविषयेभ्यश्चेतो-मनः, समाकृष्य-प्रत्याहृत्य 'यदि समता सेव्यते तदा सुखं स्यात्' अनन्यादृशं चेतश्चमत्कारिमहानन्दोऽनुभूयेत, यत्सुखमन्यस्य जनस्य वक्तु नैव पार्यते-पारं प्राप्यते ॥१९॥
___ - भोगिभूत संसारिलोकः समतामुख नैव वेत्ति-: 'कुमारी न यथा वेत्ति, सुखं दयितभोगजम् ।
न जानाति तथा लोको योगिनां समता-सुखम् ॥२०॥ टीकाः यथा कुमारिका 'दयितभोगजं सुखं पतिमोगजन्यं सुखमनुभवाऽपेक्षया न जानाति, तथा तथा लोकः-भोगिसंसारी लोकः, योगिनां--अध्यात्मयोगिनां महायोगरूपं--समताजन्यं सुखमनुभवतो न जानात्येवेति ॥२०॥
. ..समता, वर्मणा सह तोल्यते. 'नतिस्तुत्यादिकाऽऽशंसा-शरस्तीवः स्वमर्मभित् ।
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org