________________
अध्यात्मसार:
॥१५८॥
-किंफला समता - 'अर्गला नरकद्वारे, मोक्षमार्गस्य दीपिका ।
समता गुणरत्नानां, सङ्ग्रहे रोहणावनिः ॥१७॥ टीका:--समता कीदृशी ! 'नरकद्वारेऽर्गला' नरक द्वारप्रतिबन्ध-की-भूतप्रतिधस्वरूपा समता, 'मोक्षमार्गस्य दीपिका' मोक्षमार्गप्रकाशकदीपिका समता, ज्ञानादिगुणरत्नानां सङ्ग्रहणे रोहणपर्व. तस्यावनिभूता समता, अर्थात् नरकद्वारप्रतिबन्ध-मोक्षमार्ग-प्रकाश गुणरत्नसङग्रहरूपफलानि समतयैव प्राप्यन्ते ॥१७॥
-दोषनाशकरी समता'मोहाच्छादितनेत्राणा-मात्मरूपमपश्यताम् ।
दिव्याञ्जनशलाकेव, समता दोषनाशकृत् ॥१८॥ टीका='मोहाच्छादितनेत्राणाम्' मोहेनाच्छादिते नेत्रे विवेक दृष्टिरूपे भावनेत्रे येषां तेषामत एवत्मरूपमपश्यतां'स्वाऽऽत्मस्वरूपसाक्षात्कारमकुवंतां पुरुषाणां "दिव्याञ्जनशलाकेव'लोकोत्तराऽञ्जनशलाकासमाना समता मोहादिरूपदोषनाशकरी भवतीति ॥१८॥
॥१५॥
Jain Education Internatione
For Private & Personal use only
www.jainelibrary.org