________________
अध्यात्मसारः
॥१५७॥
Jain Education Internation
चौद्धत्यमलनाशः स्यात्, समताऽमृतमज्जनात् ॥ १४॥
टीका:- समतानामकामृतस्नानेन नयनयुगलनिष्टं कामरूपं विषं शुष्कं वा शुद्धं भवेत्, क्रोधनामकस्तापः क्षयं व्रजेत्-प्राप्नुयात्, औद्धत्य- उन्मादरूपमलस्य नाशः स्यात् ||१४|| एका समव सुखाय जायते 'जरामरणदावाऽग्निज्वलिते भवकानने । सुखाय समतैकैव, पीयूषघनवृष्टिवत् ||१५||
टीका:- जरामरणरूप दावानलेन ज्वलिते दग्धे, भवरूपे कानने - वने 'पीयुपधन वृष्टिवत्'- सुधाया महामेघस्य वेगवद्दृष्टिसमाना, एका समतेव सुखाय भवत्येव ॥ १५ ॥ - एकसमताSSलम्बना मोक्षप्राप्तिः'याश्रित्य समतामेकां निवृता भरतादयः नहि कष्टमनुष्ठान-मभूत्तेषां तु किञ्चन ॥१६॥
1
टीका :- 'आश्रित्य समतामेकां रागद्वेषपरिणत्य भावरूपामेकां समतामालम्ब्य 'निवृता भरतादयः ' भरत आदियेषां ते भरतरूपप्रथमच कार्यादयः, निवृतिं प्राप्ताः 'तेषां तु नहि किश्चन कष्टमनुष्ठानमभूत् '= तेषां भरतादीनां तु किञ्चिदपि बाह्यतप आदिरूपं कष्टकार्यनुष्ठानं जातं नहि ||१६||
For Private & Personal Use Only
॥१५७॥
www.jainelibrary.org