________________
अध्यात्म सार:
११५५॥
यया विशदयोगानां, वासीचन्दनतुल्यता ॥१०॥ टीका:--'समतापरिपाके स्याद् विषयग्रहशून्यता'समत्वनामको भावो यदा परिपाकदशामापत्रः स्यात्तदा विषयनिष्ठेष्टानिष्टताविषयककल्पनाज्ञानस्याऽऽत्यन्तिकाभावःस्यात् , 'यया विशदयोगाना वासी-- चन्दन--तुल्यता' विषयग्रहशून्यताविशिष्टसमतया निर्मलतरयोगगरिष्ठानां महात्मनां वास्या-येन शस्त्रविशेषेण चर्मच्छिद्यते, अथवा चन्दनेन लिप्यते, वास्या वा चन्दने तुल्यताऽर्थात् , निन्दकस्तावकपुरुषयोस्तुल्यमनोवृत्तिरूपसमतासिद्धिः॥१०॥
__-नित्यवैरिवैरशामक-समतां साधोः स्तुमः'किं स्तुमः समतां साधो-र्या स्वार्थ-प्रगुणीकृता ।
वैराणि नित्यवैराणामपि हन्त्युपतस्थुषाम् ॥११॥ टीका:--'साधोः समता किं स्तुमः १ कया रीत्या मुनेः समभावं वयं स्तुमः ? 'या स्वार्थप्रगुणीकृता'= स्वात्महितायेवाधिकाधिक्येन पुष्टकरणेन प्रवृद्धा समता, साधोपावें उपतस्थषां--उपस्थितिं कुर्वता. 'नित्यवैराणां'अहिनकुलादि-नित्यवेरवतामपि (नित्यवैररहितानां का कथेत्यपि शब्दार्थः) प्राणिनां वैराणि-पारस्परिक--वैमनस्यानि हन्ति-दूरीकरोति, स्वस्य कृते क्रियमाणा साधना परेषां वैरविनाशाय कल्पते ॥११॥
॥१५॥
Jain Education Intemat
For Private & Personal use only
www.jainelibrary.org