________________
अध्यात्म सार:
॥१५४॥
टीकाः--सामान्यतः संसारिजीवेषु, जीवस्य स्वकर्मणा निर्मितमुञ्चत्वनीचत्वरूपं शिष्टत्वदुष्टत्वरूपमित्यादिनानारूपं द्वैविध्यं (द्वैतभावो) भासते परन्तु यदा 'शुद्धनयस्थित्या'निश्चयनयदृष्टया सर्वे जीवाः शुद्धात्मस्वरूपमया दृश्यन्ते तदेतद्वैविध्यं न भाति तदा च तस्य जीवस्य साम्यमनाहत-मप्रतिहतं भवति ॥८॥
-कूटस्थनित्यात्मद्रव्यगुणादिध्यानतःसाम्यमनुत्तरम्-- 'स्वगुणेभ्योऽपि कोटस्थ्यादेकत्वाऽध्यवसायतः ।
श्रात्मारामं मनो यस्य, तस्य साम्यमनुत्तरम् ॥१॥ टीका:--एक आत्मा नित्योऽस्ति, अन्यजीवेभ्यश्च सदा भिन्न एव तथाऽपि स्वज्ञानादिगुणेभ्योऽपि कूटस्यनित्यत्वात् , स्वगुणापेझयाऽपि कूटस्थनित्यत्वात् , स्वगुणापेक्षयाऽपि सर्वथा शुद्ध आत्माऽस्ति, एकमेवाऽऽत्मद्रव्यं कूटस्थनित्यमस्ति (अप्रच्युताऽनुत्पन्नस्थिरेकस्वभावःकूटस्थः) एकत्वाध्यवसायतः गुणगुणिनोरभेदनिश्चयतः, 'आत्मारामं मनो यस्य' यस्य-योगिनः कूटस्थस्वगुणाऽभिन्नाऽऽत्मनि रममाणं मनोऽस्ति तस्य योगिनः माम्यमनुत्तरं-परमोत्तमं भवति ।।९॥
--परिपक्वायां समतायां वासोचन्दनतुल्यता'समतापरिपाके स्याद् विषयग्रह-शून्यता ।
॥१५४॥
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org