________________
अध्यात्म सार:
॥१५॥
टीका:-अर्थ:-पदार्थैः सह प्रियाऽप्रियत्वयोः इष्टानिष्टत्वयोर्व्यवहारस्य या कल्पना-सड़कल्पअन्यारोपणा, 'निश्चयात्तद्व्युदासेन' निश्चयनयदृष्टया पूर्वकथितकन्पनाया निरासेन 'स्तैमित्यं समतोच्यते' चित्तचञ्चलताया अभावरूपं स्थैर्य समता कथ्यते ॥२॥
निश्चयत इष्टानिष्टत्वकल्पना, कल्पनामात्रफलैव 'तेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः ।
निश्चयात्किञ्चिदिष्टं वाऽनिष्टं वा नैव विद्यते ॥३॥ टीकाः-एकपुरुषापेक्षया 'येष्वेवाऽर्थेषु द्विषतः पुसस्तेष्वेवार्थेषु रज्यतः' यत्पदार्थनिष्ठो द्वेषस्तत्पदार्थनिष्ठो रागः, यद्रागद्वेषकल्पना पुरुषस्य भवति, यतो निश्चयतः' निश्चयनयतः, वस्तुतः, किश्चिद्वस्त, इष्टं वाऽनिष्टंवा नैव विद्यते' कस्यचित्पुरुषस्य किञ्चिदिष्टं सदाऽथवा किश्चिदनिष्टं नियतं नास्त्येव कालादिभेदेनेष्टमनिष्टं वाऽनिष्टमिष्टं भवतीति ॥३॥
एकस्मिन् विषये भवतो रागद्वेषयोः कारणम् 'एकस्य विषयो यः स्या-स्वाभिप्रायेण पुष्टिकृत् । अन्यस्य दवेष्यतामेति स एव मतिभेदतः ॥१॥
॥१५॥
Jain Education Intemat
Far Private & Personal use only
www.jainelibrary.org