________________
अध्यात्म
सार:
॥१५॥
चार्यश्रीमद्-विजयलब्धिसूरीश्वरपट्टघराचार्य श्रीमद्-विजय-भुवनतिलकसूरीश्वर-पट्टघरभद्रकरमरिणा कृतायामध्यात्मसारग्रन्थे भुवनतिलकाख्यायां टीकायां ममत्वत्यागनामकोऽष्टमोऽधिकारः समाप्तः । २३५॥
अथ समतानामको नवमोऽधिकारः - प्रतिबन्धकाभावे समतायाः स्वतः प्रादुर्भावः - 'त्यक्तायां ममतायां च, समता प्रथते स्वतः ।
स्फटिके गलितोपाधौ, यथा निर्मलतागुणः ॥१॥ टीकाः-ममतायां च त्यक्तायां ममतायाम्त्यागे सत्येव 'स्वतः समता प्रथते स्वयमेव समता बिलसति वर्धते च, 'गलितोपाधो स्फटिके रक्तवर्णकजपानामकपुष्षरूपोपाधौ गलिते-विनप्टे यथा स्फटिके निर्मलतागुणः स्वतो विकसति तथाऽत्रापि विज्ञेयम् , समता प्रति ममतारूप उपाधिः प्रतिबन्धकः, ममताया अभावे समतोदेति नान्यथेति ॥१॥
- याद्यपदार्थनिष्ठप्रियाऽप्रियत्वकल्पनानिरासः समता - 'प्रियाऽप्रियत्वयो र्याऽर्थे र्व्यवहारस्य कल्पना । निश्चयात्तद्व्युदासेन, स्तमित्यं समतोच्यते ॥२॥
॥१५०॥
Jain Education Internatio
BAPERSORRUSSONA
vww.jainelibrary.org