________________
अध्यात्म
सारः
॥१४९॥
Jain Education Internation
'घृतो योगो न ममता, हता न समताऽऽदृता ।
न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् ॥२६॥
टीका:- येन बाह्यसंसारत्यागरूपो योगो धृतः पत्न्यादिसम्बन्धविषयिणी 'ममता न हता' - मनः प्रदेशात् पृथक्कृता न, 'समता च नादृता' - समतां प्रति न सद्भावः स्वीकृतः, 'तत्त्वं न जिज्ञासितं'= स्वस्वभावो न ज्ञानेच्छाविषयीकृततः 'तस्य जन्म निरर्थकं गतम् ' तस्य पुरुषस्य जीवनं निष्फलं गतं, योग वरस्य सर्वथा ममतामारणसमताधारण- तत्वजिज्ञासापूर्णस्य पुरुषपुङ्गवस्यैव जन्म सर्वथा सफलमेव नाऽन्यथेति भावः ||२६||
- जिज्ञासाविवेकाभ्यां ममतैव विनाश्या
'जिज्ञासा च विवेकश्व, ममतानाश कावुभौ
तस्ताभ्यां निगृह्णीया-देनामध्यात्मवैरिणीम् ॥२७॥
टीका:-- 'जिज्ञासा च विवेक ' = तत्त्वजिज्ञासा च देहात्मभेदज्ञानरूपविवेकश्व, 'उभौ ' = जिज्ञासाविवेको द्वौ, 'ममतानाशको ' = ममताया विनाशकौ कथितौ स्तः, 'अतस्ताभ्यां ' - जिज्ञासाविवेकाय, 'अध्यात्मवैरिणीमेन = अध्यात्मभावस्य प्रतिपक्षभूतामेना-ममतां निगृह्णीयात् निग्रहं नयेत् ॥ २७॥ इत्या
For Private & Personal Use Only
॥१४९॥
www.jainelibrary.org