SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।। १४८ ॥ Jain Education Intern --तस्वजिज्ञासोस्तत्त्वप्राप्तिं विना न क्वचिद्वति:'प्रियार्थिनः प्रियाप्राप्तिं, विना क्वापि यथा रतिः । न तथा तत्त्वजिज्ञासो स्तत्त्वप्राप्तिं विना क्वचित् ॥२४॥ टीका:- प्रियायाः कान्ताया अर्थिनः - स्पृहयालोः प्रियायाः प्राप्तिं विना यथा क्वाऽपि - क्वचिदपि स्थाने वस्तुनि वा न रती रागो भवति, तथा तत्वस्य जिज्ञासो :- तत्वज्ञानविषयकप्रत्रलेच्छोः तत्त्वस्य प्राप्तिं विना क्वचिन्न रतिर्भवतीति ||२४|| -- तत्त्वजिज्ञासाप्रतिबन्धिका ममत्वबुद्धि:-- 'श्रत एव हि जिज्ञासां विष्टम्भति ममत्वधीः । विचित्राऽभिनयाऽऽक्रान्तः, सम्भ्रान्त इव लक्ष्यते ॥२५॥ टीका:-'जिज्ञासां हि ममत्वधीर्विष्टम्मति' = तत्त्वजिज्ञासां निश्वयतो ममत्वषुद्धिः प्रतिबध्नाति अत एव ममत्वान्धो जीवः मातापितृपत्न्यादिसम्बन्धिवर्गं प्रति 'विचित्राऽभिनयाऽऽक्रान्तः = विविधजातीयविकारिचेष्टाभिः सहितः 'सम्भ्रान्त इव लक्ष्यते ' = सम्भ्रमवानुन्मत्त इव ज्ञायते इति ॥ २५ ॥ तत्वजिज्ञासा समताइयरहितस्य ममतासहितस्य जन्म निरर्थकम् - For Private & Personal Use Only ॥१४८॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy