________________
भेदज्ञानात् पलायेते, रज्जुज्ञानादिवाहिभीः ॥२२॥ अध्यात्म
टीकाः-स्वत्वाभाववति स्वत्वविषयकभ्रमजन्या, 'अहंता' =अहं शरीरी-मनुष्यो-देवः-श्रीमान्सारः
राजा-देवेन्द्र इत्याकारिका, स्वीयत्वाभाववति स्वीयत्वविषयकभ्रमजन्या-'ममता' =ममेदं शरीरं-धनं च
राज्यं समग्रसुखसाधनादिकमित्याकारिका, ते अहंताममते स्वत्वादिभ्रमात्मकबुद्धिजन्ये 'भेदज्ञानात् =नाहं ॥१४७॥ न ममेति भेदज्ञानात् , पलायेते-प्रणश्यतः यथाऽहिभी:-सर्पभयं रज्जुज्ञानात् पलायते, तथाऽत्रापि
'अहं ममेति मन्त्रोऽयं, मोहस्य जगदाध्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् ।। इत्यपि गेयमत्र ॥२२॥
- अप तत्त्वजिज्ञासया ममताया अस्थितिः - 'किमेतदिति जिज्ञासा, तत्त्वाऽन्तर्ज्ञानसम्मुखी ।
व्यासङ्गमेव नोत्थातु, दत्ते क ममतास्थितिः ॥२३॥ ____टीका:-'किमेतदिति जिज्ञासा'-एतज्जगद्वा वस्तु किं स्वरूपं ? इति तत्वविषयकान्तर्ज्ञानसम्मुख४ कारिणी, अथवा तत्त्वनिर्णयरूपसम्यग्दर्शनज्ञानसम्मुखकारिणी जिज्ञासा, 'व्यासङ्गमेव नोत्थातु दत्ते'
आसक्तिमुत्थितां न कुरुते-अनुत्थानहतदशापन्नरागभावं करोति, ततः 'क्क ममतास्थितिः'रागभावाभाव कारकजिज्ञासाप्रतिपन्ने पुरुषे कुतः ममतास्थितिरान ममता तिष्ठत्येवेति ।।२३।।
||९४७॥
Jain Education Interatia
Far Private & Personal use only
ww.jainelibrary.org