________________
अध्यात्मा सार:
॥१४६॥
___ दृढभूमीभ्रमवतां नैयत्येनावभासते ॥२०॥ टीकाः-ममत्वदोषेण यो मातापित्रादिसम्बन्धः सर्वथाऽनियतोऽस्ति सोऽपि नियतत्वेन-सर्वथा स्थायित्वेनाऽवभासते तत्र कारणं तु 'दृढभूमीभ्रमवतां अनियतवस्तुनि नियतताया विपरीतता-रूपो भ्रमो दीर्घकालपर्यन्तं नैरन्तर्येणाऽत्यन्तप्रेम्णा सेवितोऽत एव दृढा भूमिर्यस्य भ्रमस्य स दृढभूमीभ्रमस्तद्वतां दृढभमीभ्रमवत्वेन नैयत्येन-नियतत्वेनाऽवभासते-पश्यति जानाति च ॥२०॥
-सत्यस्य द्रष्टुः स्वरूपम्-- 'भिन्नाः प्रत्येकमात्मानो, विभिन्नाः पुद्गला श्रपि ।
शून्यः संसर्ग इत्येवं, यः पश्यति स पश्यति ॥२१॥ टीका:-भिन्नाः प्रत्येकमात्मानो' =सर्वे जीवा व्यक्तिमपेक्ष्य भिन्नाः, 'विभिन्नाः पुद्गला अपि'= परमाणस्कन्धादिका पुद्गला अपि सर्वे भिन्नभिन्नव्यक्तिकाः, केन जीवादिना सह कस्यचित् पुद्गलादिकस्य कोऽपि तादात्म्यलक्षणः सम्बन्धो नात एव शून्यःसंसर्ग इत्येवं यः पश्यति म पश्यति-सत्यदर्शनवानस्ति नान्य इति ॥२॥
-स्वपरभेदज्ञानादहंताममतयोः पलायनम्'श्रहन्ताममते स्वत्वस्वीयत्व भ्रमहेतुके ।
॥१४६॥
Jain Education Interne
For Private & Personal use only
www.jainelibrary.org