SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-18 सार ।।१४२॥ जात्यन्धममतान्धयो महदन्तरम्-- 'ममताऽन्धो हि यन्नास्ति, तत्पश्यति, न पश्यति । जात्यन्धस्तु यदस्त्येत-भेद इत्यनयोर्महान् ॥१२॥ ___टीका:-जात्यन्धस्तु--जन्मनाऽन्धस्तु, विश्वेऽस्मिन् यदेतद् रूपादिकं रूपादिववस्तु 'यदस्ति'-- यद् विद्यते तन्न पश्यति, चर्मचक्षपोरभावाद्, 'ममतान्धस्तु'रागान्धस्तु यनास्ति (यथा स्वजनादिकं स्वकीय नास्ति तत् (स्वकीयत्वेन) पश्यति भ्रमात्मकदृष्टित्वात , इति अनयोः'-जात्यन्धममतान्धयो 'महान् भेदः'-महदन्तरमिति ॥१२॥ -अहो स्त्रोममत्वं कीदृशम् ? पश्य २ 'प्राणानभिन्नताध्यानात् , प्रेमभूम्ना ततोऽधिकाम् । प्राणापहां प्रियां मत्वा, मोदते ममतावशः ॥१३॥ टीकाः-ममतावशो जीवः शरीरादिप्राणान् स्वात्मना सहाभिन्नताध्यानात् , प्राणैः सहात्मैकतामनुभवति, अथवा स्वीयप्रिया प्राणाभिन्ना कल्पते तत्तु वरं परंतु 'प्रेमभूम्ना ततोऽधिका' प्रेम्णो बाहुल्येनाधिक्येन प्रियां प्राणेभ्योऽप्यधिको महतीं, वस्तुतः 'प्राणापहाँ' प्राणहरीमपि (सूर्यकान्तावत) मत्वा ममतान्धः पति मोदते इति ॥१३॥ ॥१४२॥ Jain Education Internatione Far Private & Personal use only Alww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy