________________
अध्यात्म
सारः
॥१४॥
अर्थाद्धनस्य कालोऽस्ति वाऽकालोऽस्तीति किमप्यदृष्ट्वैव, धनस्य लोभेन धावति-द्रुतं द्रुतं गच्छतीति ॥९॥
___ -अशरणं जगत्'स्वयं येषां च पोषाय, खिद्यते ममतावशः ।
इहामुत्र च ते न स्युस्राणाय शरणाय वा ॥१०॥ टीकाः--च-किच, स्वयं येषां स्वजनादीनां पोषाय--पोषणाय ममतापरवशो जीवः खिद्यतेदुःसदानि कष्टानि तीव्रान् संतापतापश्चि सहते, ते स्वजनादयः, इह--अस्मिन् वर्तमाने भवे 'न त्राणाय शरणाय वा स्युः तस्य जीवस्य वृद्धाद्यवस्थातो रोगाद्यापत्तितो रक्षणाय शरणाय-अवलम्बनाय न भवेयुः 'अमुत्र'-परलोके -भवांतरे च न रक्षणायाबलम्बनाय-निर्भयं जीवनयापनायाधारभूताय स्युरिति ॥१०॥
-पापेनाऽर्जितैर्धनै रेकोऽन्यान्पुष्णन्नरकदुःखानां सोढा'ममत्वेन बहून लोकान् , पुष्णात्येकोर्जितैर्धनैः ।
सोढा नरकदुःखाना, तीव्राणामेक एव तु ॥११॥ टीकाः--ममताहेतुनाऽष्टादशपापस्थानकद्वाराऽजितैर्धनैः स्वजनादीन बहून् लोकानेकः पुष्णाति, स तु पापोपार्जकः पोषक एकक एव तीव्राणामतुलानां नरकसम्बन्धिदशविधवेदनादुःखानां सोढा-- सहनकर्ता भवत्यवश्यमिति ॥११॥
X॥१४॥
JainEducation intent
For Private & Personal use only
www.jainelibrary.org