________________
अध्यात्मसार
॥१४३||
- ममतामूढः स्त्रीणामबयवान् कीदृशान् मनुते १ पश्य २ - 'कुन्दान्यस्थीनि दशनान, मुखं श्लेष्मगृह विधु ।
मांसग्रन्थी कुचौ कुम्भौ, हेम्नो वेति ममत्ववान् ॥१४॥ टीकाः-अहो एतस्या ममतायाः कार्मणं कीदृशं विचित्रम् ? 'कुन्दान्यस्थीनि दशनान्' अस्थिस्वरूपान् दन्तान् कुन्दनामकपुष्पकलिकात्वेन, श्लेष्मगृहं मुखं विधु' कफस्य गृहं मुखं विधुत्वेन-चन्द्रत्वेन, 'मांसग्रन्थी कुची हेम्नः कुम्भौ'-मांसकोशरूपौ कुचौ-स्तनौ सौवर्णकलशरूपत्वेन ममत्ववान-ममताशाली जीवः, वास्तविकता निहनूय भ्रमदृष्टिकत्वेन परपदार्थेऽपि कलपनाशीलकविवत, अतिशयोक्ति कृत्वा विष. रीततत्त्वं वेत्ति-जानातीति ॥१४॥
- ममत्वाक्रान्तो लोलाऽक्षी सतीत्वेन मन्यते - 'मनस्यन्यदचस्यन्यत्, क्रियायामन्यदेव च ।
यस्यास्तामपि लोलाक्षी, साबी वेत्ति ममत्ववान् ॥१५॥
टीका:-यस्याः विलासवत्याः, मनसि-चित्तेऽन्यद्वस्तु चिन्त्यमानमस्ति, वचसि-वचनेऽन्यद् वस्तु कथ्यमानस्ति, क्रियायां-कायस्य प्रवृत्ती क्रियमाणमन्यद वस्त्वस्ति. 'तामपि'-भिन्नभिन्नमनोवाकायवतीमपि (अभिन्नमनोवाक्कायवत्याः सत्यास्तु का वार्तेत्यपि शब्दार्थः) 'लोलाक्षी' यत्र तत्र सर्वत्र
॥१४३॥
Jain Education Interne
For Private Personal use only
www.jainelibrary.org