________________
अध्यात्मसार:
॥१९॥
टीका:-ममतानामिका पत्नी, सटिति, अविद्या-अतत्त्वबुद्धिरूपौषधीबलेन, 'पशुकृत्य जन्तुकान्त'= जीवरूपपति बलीवर्दादिरूपचतुष्पदादिना पशुकृत्वाऽज्ञानवन्तं दृष्ट्वा नानाविधैः साधनैः क्रीडयति-रमयति व्यङ्गयतो मारयति वेति ॥४॥
-ममतायाःसम्बन्धेनैव सर्ववाद्यसम्बन्धनिर्माणम्-. 'एक: परभवे याति, जायते चैक एव हि ।
ममतोदेकतः सर्व, सम्बन्धं कल्पयत्यथ ॥५॥ टीकाः-जीवस्य कीदृशी रङ्कता पश्य २ एकक एव जीवो याति परभवे-भवान्तरे, चैकक एव हि जायते--उत्पद्यते तथाप्यथ जननमरणमध्यवर्ती जीवः, 'ममतोद्रेकतः ममताया आधिक्यतः, सर्व बाह्यसम्बन्धं कल्पयति-निर्मिमीते निर्मापयति च ॥५॥
--ममतानामकबोजतो भवप्रपञ्चस्य रचनासृष्टिः'व्याप्नोति महती भूमि, वटबीजाद्यथा वटः ।
तथैकममताबीजाप्रपञ्चस्यापि कल्पना ॥६॥ टीका:-यथा वटवृक्षो बटबीजा-न्महतीं-विशाला भूमि व्याप्नोति तथा, एकस्मान्ममतानामकबीजाज्जीवस्य संसाररूपप्रपश्चस्य जन्मादिकर्मादिप्रपश्चस्यापि तन्मध्यस्थस्याऽपि का वार्तेत्यपिशब्दार्थः ॥३॥
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org