________________
अध्यात्म
सार:
॥१३८॥
टीका:--'यदि ममता जागर्ति यदि ममभावो मुमुक्षोरन्तःकरणे जीवन विद्यते तदा 'किं विषयैः परित्यक्तः' चामविषयाणां त्यागस्य कोऽर्थः १ 'भुजङ्गो नहि निर्विषः, कञ्चुकमात्रस्य त्यागात्'=सपें ऽहित्वग्रूपकञ्चुकमात्रस्य त्यागाद्धि न निर्विषो भवति, तथाऽत्रापि बहिरङ्गीयवस्तुत्यागतो बाह्यवस्तुगतममतात्यागरूपोऽन्तरङ्गीयत्यागः श्रेष्ठश्रेयस्करः, ममतात्यागेनैव विषयत्यागस्य मोक्षफलदायित्वेन सफलता नाऽन्यथेति ॥२॥
--ममताराक्षसी गुणग्रामं योगपद्येन भक्षयति-- 'कष्टेन ' हि गुणग्राम, प्रगुणीकुरुते मुनिः
ममताराक्षसी सर्व, भक्षयत्येकहेलया ॥३॥ टीका:-मुनिसाधकः साधनाकाले भयङ्करःखानि सहित्वा स्वात्मनि गुणगणं 'प्रगुणीकुरुते'-एकत्रितं करोति पिण्डितं व्यवस्थितं वा रचयति परन्तु ममतारूपिणी राक्षसी सर्वगुणग्राममेकहेलया-एकलीलामात्रेण सद्यो भक्षयति-समूलमुन्मूलयत्येवेति ॥३॥
--ममतापत्नी जीवरूपपति रमयति'जन्तुकान्तं पशूकृत्य, द्रागविद्योषधीवलात् । उपायै बहुभिः पत्नी-ममता क्रीडयत्यहो ॥४॥
|१३८॥
Jan Education Intema
For Private & Personal use only
www.jainelibrary.org