________________
अध्यात्मसार:
॥१३६॥
वन्तो विबुधा अधिकं न विदन्ति-स्वरूपस्थितिमेव जानन्ति, आत्मरमणताज्ञानमिनजगन्माननिरपेक्षाः, आत्मरमणतां विहायाऽधिकज्ञानेऽपेक्षाया अभावः ॥२४॥
--असङ्गाऽनुष्ठानगतानां चेतसि शिवेऽपि न कामना-- 'हृदये न शिवेऽपि लुब्धता, सदनुष्ठानमसङ्गमङ्गति ।
पुरुषस्य दशेयमिष्यते, सहजाऽऽनन्दतरङ्गसङ्गता ॥२५॥ टीका:--यदा महात्मना सदनुष्ठानं, असङ्गानुष्ठाने परिणमतेऽर्थात् सदनुष्ठानमसङ्गमङ्गति तदाऽसगानुष्ठानवता 'हृदयेन शिवेऽपि लुब्धता'मोक्षेऽपि मोक्षभिन्नविषये तु का कथा ? इत्यपिशब्दार्थः, न कामनाऽर्थादसङ्गाऽनुष्ठानतः पूर्वकाले वचआद्यनुष्ठाने शिवविषयकलुब्धता त्वासीदधुनाऽत्र नेति अत एवासङ्गाऽनुष्ठानस्वामिनः, 'सहजाऽऽनन्दतरङ्ग सङ्ग ता पुरुषस्य दशेयमिष्यते' स्वभावभूतचिदानन्दस्य तरङ्गः सहाखण्डसङ्गाऽभिन्नेयं दशा मुमुक्षविशेषपुरुषस्येष्यते नान्यस्येत्यर्थः ॥२५॥
-वैराग्ये विलसच्चेतसं यशः श्रियो वरीतुमुपयन्ति'इति यस्य महामते भवेदिह-वैराग्यविलासभृन्मनः । उपयन्ति वरीतुमुच्चकै-स्तमुदारप्रकृतिं यशःश्रियः ॥२६॥
॥१३६॥
Jain Education Inter
___www.jainelibrary.org