________________
अध्यात्म-19
सार:
॥१३४॥
-सकलगतिगतविषयेषु शिवार्थिनो नो रतिः'विषयेषु रतिःशिवार्थिनो, न गतिष्वस्ति किलाऽखिलास्वपि ।
घननन्दन-चन्दनार्थिनो, गिरिभूमिष्वपरद्रुमेष्विव ॥२१॥ टीका:--'शिवार्थिनः' मोक्षपुरुषार्थरूपप्रयोजनकनिश्चयपूर्णरसशालिनो वैराग्यमूर्ते नेः 'किलाऽ. खिलासु गतिषु विषयेषु न रतिरस्ति'-सकलदेवादिगतिषु स्थितेषु इन्द्रियसत्कशब्दादिविषयेषु न रतिः-- ग्मणता नास्ति यथा 'घननन्दनचन्दनार्थिनः'सान्द्रनन्दनवनचन्दनस्पृहावतः 'गिरिभूमिष्वपरद्रुमेषु' पर्वतीयभूमिगतविवक्षितचन्दनभिन्नापरवृक्षेषु न रतिः--प्रेम तथात्राऽपि विज्ञेयमिति ॥२१॥
-स्वलब्धिरूपगुणनिःस्पृहतारूपं परवैराग्यम्'इति शुद्धमतिस्थिरीकृताऽपरवैराग्यरसस्य योगिनः ।
स्वगुणेषु वितृष्णताऽऽवहं, परखैराग्यमपि प्रवर्त्तते ॥२२॥ टीका-इति शुद्धमतिस्थिरीकृतापरवैराग्यरसस्य योगिनः' पूर्वोक्टरीत्याऽत्यन्तनिर्मलमननशील मतिबलेनकान्तसुदृढीकृत विषयवैराग्यनामकमध्यमकोटीकाऽपरवैराग्यरसिकतास-पन्नस्य साधोः, 'स्वगुणेषु वितृष्णतावह' साधनारूपप्रयत्नजन्या गुणरूपलब्धीःप्रति तृष्णाया अभावरूपं वैराग्यं परमुत्कृष्टवैराग्यं प्रवर्तते ॥२२॥
॥१३४॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org