SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।। १३२ ।। Jain Education Internationa सालसाः'=एते ज्ञानगर्भितवैराग्यवन्तः परमाध्यात्मिकशान्तरसजन्यानन्दरसास्वादैकलीनाः, अत एव 'परलोकसुखेऽपि निःस्पृहाः’=पारलौकिकस्वर्गादिगतसुखानन्दर सेऽपि स्पृहाशून्याः, अर्थात् सांसारिकस योगिकवैषयिकसुखमात्रे निःस्पृहाः, परमानन्दरसालसत्वान्मोक्षैककामिनः || १७|| -आनुश्रविकविषयत्यागरूपवैराग्यवर्णनम् - 'मदमोहविषादमत्सर-ज्वरबाधाविधुराः सुरा श्रपि । विषमिश्रितपायसान्नवत्, सुखमेतेष्वपि नैति रम्यताम् ॥१८॥ |टीका: ननु देवलोकेषु दिव्यविषया इन्द्रियजन्याः किमानन्ददायिनो न ? इति चेदुच्यते 'सुरा अपि मदमोहमत्सरज्वरबाधाविधुराः ' देवा अपि किमुताऽन्य इत्यपि शब्दार्थः, अभिमानमोहनीय कर्मोदयरूपमोहेरूपज्वरजन्यपीडाभिः पीडिताः सन्ति, तादृशदेवेषु दिव्यविषयसुखं वास्तविकं सुखं कथं १ यतो मदादिदोष प्राचुर्यं परिणामकटुता तत्रास्ति अत एव 'विषमिश्रितपायसाम्नवत् ' = तालपुटविषकखेनाऽपि मिश्रितपायस( पयसानिष्पन्न दुग्धपाकरूप) क्षैरेयीभोजनतुल्यं, 'एतेष्वपि सुखं न रम्यतामेति' - देवसम्बन्धिविषयेष्वपि, किमुताऽन्यविषयेष्वपिशब्दार्थः, रमणीयतारहितसुखं, अर्थाद् योगिनामानुषविक देवसत्कविषयभ्यो वैराग्यमेव, देवसुखं न रम्यसुखमपितु परिणामतो दुःख दुर्गतिदत्वेन दुःखरूपमेवेति योगिन एव जानन्ति ॥ १८ ॥ For Private & Personal Use Only ।। १३२ । www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy