________________
अध्यात्म
|| शुद्धिजन्यविमलत्वं प्राप्तानां योगिनां 'सलिलस्नानकलाऽपि निष्फला' जलीयस्नानस्याऽशोऽपि निरुप
योग्येवेति ॥१॥ सार:
-योगिनां भोगिनां च दृष्टेमहदन्तरम्
'गणयन्ति जनुः स्वमर्थवत् सुरतोल्लाससुखेन भोगिनः। ॥१३१
मदनाहिविषोग्रमूर्च्छनामयतुल्यं तु तदेव योगिनः ॥१६॥ टीका:-'भोगिनःसुरतोल्लाससुखेन' भोगरसिका जीवाः स्पर्शनेन्द्रियजन्यविषयसुखानुभवजनितोल्लाससुखेन 'स्वजनुरर्थवद् गणयन्ति-स्वकीयं जन्म सार्थक गणयन्ति, योगिनस्तु तदेव' तदेव भोगिनो जन्म, 'मदनाहिविषोग्रमूर्छनामयतुल्यं-कामरूपसर्पविषजातभयङ्करमूर्छाप्राचुर्यपूर्णेन सहसमानं गणयन्त्येव ॥१६॥
___-ऐहिकपारलौकिकविषया विरक्तानां हर्षाय न'तदिमे विषयाः किलैहिका, न मुदे केऽपि विरक्तचेतसाम् ।
परलोकसुखेऽपि निःस्पृहाः, परमानन्दरसाऽलसा श्रमी ॥१७॥ टीकाः-'तदिमे विषयाः किलैहिकाः' तस्मादिमे-इन्द्रियसम्बन्धिनः किलेहलौकिकाः केऽपि मनोहराद्या अपि विषया 'विरक्तचेतसा न मुदे वैराग्यवासितमानसानां न हर्षाय भवन्ति 'अमी परमानन्दर
॥१३
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org