________________
अध्यात्मसार:
॥१२॥
टीका:-'सतताऽविकारिणि' नैरन्तर्येण विकारविरहिते अविकारके वा 'नवमेऽनवमे रसे यदि मनो मग्नं'-शङ्गारादिनवसु रसेषु मध्ये, तृष्णाक्षयरूपस्थायिभावजन्ये शान्तरसनामके नवमे, सर्वोत्तमे, रसे यदि चित्तं मग्नं स्यात्तदा, 'स्फुटमापातसुखैः स्पष्टं प्रारम्भे सुखरूपैः 'विषमायतिमिः उत्तरकाले-भविष्यकाले विषम भयङ्करदःखरूपैः, 'विकारिभिः' -विकारकारिभिः 'रसनु किं'-मधुरादिरसभ मिष्टान्न-पक्वामादिभिः, नीरसीभावं मनसि सम्प्राप्य त्यागबुद्धिरूपापेक्षया कथितं किं-पर्याप्त-सृतमित्यर्थः ॥१२॥
रसविषये रसलोभिनां विरक्तानामपि जलं पतति'मधुरं रसमाप्य निष्पतेद, रसलोभिनां जलम् ।
परिभाव्य विपाकसाध्वसं, विरतानां तु ततो दृशोर्जलम् ॥१३॥ टीकाः='मधुरं रसमाप्य'-मधुरादिरसपरिपूर्णान् पदार्थान् भोज्यवस्तूनि प्राप्य 'रसलोभिनां रसनातो जलं निष्पतेत' रसलम्पटानां स्वजिह्वातः सुगन्धागमनाऽनन्तरं जलं मुखतो बहि निर्गच्छेत, 'विरतानां तु'वैराग्यवतां त्यागिनां तु, 'परिभाव्य विपाकसाध्वसं'-उत्तरकालीनमहाभयरूपं परिणाम परितो विचार्य, ततः मधुरादिरसवत्पदार्थप्राप्त्यनन्तरं 'दृशोर्जलम्' नयनयुगलतो जलमश्रुनामकजलं पतति यतो रसरागस्य कीदृशः करुणविपाक आगच्छतीति ॥१३॥
॥१२॥
Jain Education Internal
Far Private & Personal use only
www.jainelibrary.org