________________
अध्यात्मसार:
॥१२८॥
पवनः यच्छीलसौरभं नान्यत्र नयति, यतः शीलसौरभं परमस्थिरं, न कोऽपि तदधोघटयितु क्षमः, ततःतस्माच्छीलसौरभादपरस्मिन्-द्वितीयस्मिन् सौरभे इह-संसारेऽस्मिन् , निश्चयतो, रती रागो न युज्यते ॥१०॥
-रसनेन्द्रियविषयभूतरसवैराग्यम्'मधुरैर्न रसैरधीरता, कचनाध्यात्मसुधालिहां सताम् ।
अरसैः कुसुमैरिवाऽलिना, प्रसरत् पद्मपरागमोदिनाम् ॥११॥ टीका:-प्रसरत् पद्मपरागमोदिनां सर्वत्र व्यापकैः कमलपरागै (तद्रजोभिः) मोर्दशालिनामलिनाभ्रमराणां 'यथाऽरसैः कुसमैः-रसरहितः पुष्पै न धीरताऽर्थाद रसरहितसुमनांसि प्रति गमनोत्सुकता न तथाऽध्यात्मसुधालिहा सता ज्ञानगर्भितवैराग्यनामकाध्यात्माऽमृतपानरसिकानां विरक्तानां मुनीनां मधुरै 'रसैर्नाऽधीरता'-मधुररसवतपदार्थान-पुद्गलविशेषान् प्रति पाप्तिकृते मानसिक स्थिरताया अभावो न, भोगोपभोगान् प्रति स्वौत्सुक्याभावः ॥११॥
___-शान्तरससरसि निमग्नानां रसनारसैरलम्'विषमायतिभिर्नु किं रसैः, स्फुटमापातसुखैर्विकारिभिः । नवमेऽनवमे रसे मनो, यदि मग्नं सतताऽविकारिणि ॥१२॥
॥१२८॥
Jan Education inte al
For Private & Personal use only
ww.jainelibrary.org