________________
अध्यात्म सार
॥१२७||
पुण्यनामकपर्वतानां भजने वज्ररूपेषु अर्थात् समुपार्जितधर्मपुण्यविनाशकत्वेन, ललनानां गत्यादिचेष्टितेषु, विरताना सर्वसावद्ययोगतो विरताना-वैराग्यवता, दृष्टयः-नेत्राणि, नो प्रसरन्ति-नो गतिमाप्नुवन्तीति ॥८॥
___ -घाणेन्द्रियविषयगन्धवैराग्यम्'न मुदे मृगनाभिमल्लिका-लवलीचन्दनचन्द्रसौरभम् ।
विदुषां निरुपाधिवाधित-स्मरशीलेन सुगन्धिवर्मणाम् ॥१॥ टीकाः-'निरुपाधिबाधितस्मरशीलेन सुगन्धिवर्मणां विदुषां' सर्वोपाधिरहितेन, कामेच्छामात्रप्रतिबन्धकेन शीलेन-ब्रह्मचर्येण शोभनगन्धसुरभितशरीगणां वैराग्यविशिष्टसम्यगज्ञानिनां योगिनां मृगनामे:कस्तुर्याः, मल्लिकायाः-विचकिलस्य, चन्दनस्य, चन्द्रम्य-कपूरस्य सौरभं मुदे-आनन्दाय न भवतीति ॥९॥
-शीलसौरभं हि परं सौरभम्'उपयोगमुपैति यच्चिर, हरते यन्न विभावमारुतः ।
न ततः खलु शीलसौरभा-दपरस्मिन्निह युज्यते रतिः ॥१०॥ टीका:- उपयोगमुपैति यच्चिर' यच्छीलनामक-सौरभं चिरं-बहुकालं यावत् उपयोगापेक्षया स्वसमीपे IPS ||१२७॥ तिष्ठति, यतः शीलसौरभभिन्नं सौरभं क्षणिकम् , 'हरते यन्न विभावमारुतः स्वभावभिन्नपरभावनामकः
Jan Education Intemat
For Private & Personal use only
www.jainelibrary.org