________________
अध्यात्मसार:
॥१२५॥
-कर्णेन्द्रियविषयविरागविषयो वर्तमानोस्ति- . 'स्खलनाय न शुद्धचेतसां, ललनापञ्चमचारुघोलना ।
यदियं समतापदावली- मधुरालापरतेन रोचते ॥५॥ टीका:-शुद्धचेतसां निर्मलमानसानां योगिना, ललनापश्चमचारुघोलना-युवतिजनस्य पञ्चमस्वरेण कृता चारुसंगीतस्य पुनः पुनरावृत्तिरूपा धोलना, न खलनाय भवति यद् इयं यत इयं विशिष्टघोलना, समतापदावलीमधुरालापरतेः वैराग्योत्तेजकसमतावाचकपदानामावलीनां मधुरालापे रति यस्य तस्य मुनेर्न रोचते-रुचिविषया न भवति ॥५॥
-चक्षुरिन्द्रियविषयरूपवैराग्यम्'सततं क्षयि शुक्रशोणित-प्रभवं रूपमपि प्रियं नहि ।
अविनाशिनिसर्गनिर्मल-प्रथमानस्वकरूपदर्शिनः ॥६॥ टीका:-शुक्रशोणितप्रभवं=पितुः शुक्रेण, मातुश्च शोणितेन जनितं मानवदेहसत्कं सततं क्षयि= निरन्तरविनश्वरं रूपसौन्द्रर्यमपि, अविनाशिनिसर्गनिर्मलप्रथमानस्वकरूपदर्शिनः अच्युतस्वतोविशुद्धविस्तृत- स्वात्मरूपसौन्यदर्शिनो योगिनो नहि प्रियं भवतीति ।।६।।
॥१२५||
Jain Education Internatione
For Private & Personal use only
W
inelibrary.org